Durga Manas Puja दुर्गा मानस पूजा ★
उद्यच्चन्दनकुंकुमारुणपयोधाराभिराप्लावितां
नानानर्घ्यमणिप्रवालघटितां दत्तां गृहाणाम्बिके ।
आमृष्टां सुरसुन्दरीभिरभितो हस्ताम्बुजैर्भक्तितो
मात: सुन्दरि भक्तकल्पलतिके श्रीपादुकामादरात् ।।1।।
देवेन्द्रादिभिरर्चितं सुरगणैरादाय सिंहासनं
चंचत्कांचनसंचयाभिरचितं चारुप्रभाभास्वरम् ।
एतच्चम्पककेतकीपरिमलं तैलं महानिर्मलं
गन्धोद्वर्तनमादरेण तरुणीदत्तं गृहाणाम्बिके ।।2।।
पश्चाद्देवि गृहाण शम्भुगृहिणि श्रीसुन्दरि प्रायशो
गन्धद्रव्यसमूहनिर्भरतरं धात्रीफलं निर्मलम् ।
तत्केशान् परिशोध्य कंकतिकया मन्दाकिनीस्त्रोतसि
स्नात्वा प्रोज्ज्वलगन्धकं भवतु हे श्रीसुन्दरि त्वन्मुदे ।।3।।
सुराधिपतिकामिनीकरसरोजनालीधृतां
सचन्दनसकुंकुमागुरुभरेण विभ्राजिताम् ।
महापरिमलोज्ज्वलां सरसशुद्धकस्तूरिकां
गृहाण वरदायिनि त्रिपुरसुन्दरि श्रीप्रदे ।।4।।
गन्धर्वामरकिन्नरप्रियतमासंतानहस्ताम्बुज –
प्रस्तारैर्ध्रियमाणमुत्तमतरं काश्मीरजापिंजरम् ।
मातर्भास्वरभानुमण्डललसत्कान्तिप्रदानोज्ज्वलं
चैतन्निर्मलमातनोतु वसनं श्रीसुन्दरि त्वन्मुदम् ।।5।।
स्वर्णाकल्पितकुण्दले श्रुतियुगे हस्ताम्बुजे मुद्रिका
मध्ये सारसना नितम्बफलके मंजीरमड़्घ्रिद्वये ।
हारो वक्षसि कंकणौ क्वणरणत्कारौ करद्वन्द्वके
विन्यस्तं मुकुटं शिरस्यनुदिनं दत्तोन्मदं स्तूयताम् ।।6।।
ग्रीवायां धृतकान्तिकान्तपटलं ग्रैवेयकं सुन्दरं
सिन्दूरं विलसल्ललाटफलके सौन्दर्यमुद्राधरम् ।
राजत्कज्जलमुज्ज्वलोत्पलदलश्रीमोचने लोचने
तद्दिव्यौषधिनिर्मितं रचयतु श्रीशाम्भवि श्रीप्रदे ।।7।।
अमन्दतरमन्दरोन्मथितदुगग्ढसिन्धूद्भवं
निशाकरकरोपमं त्रिपुरसुन्दरि श्रीप्रदे ।
गृहाण मुखमीक्षितुं मुकुरबिम्बमाविद्रुमै-
र्विनिर्मितमघच्छिदे रतिकराम्बुजस्थायिनम् ।।8।।
कस्तूरीद्रवचन्दनागुरुसुधाधाराभिराप्लावितं
चंचच्चम्पकपाटलादिसुरभिद्रव्यै: सुगन्धीकृतम् ।
देवस्त्रीगणमस्तकस्थितमहारत्नादिकुम्भव्रजै –
रम्भ:शाम्भवि संभ्रमेण विमलं दत्तं गृहाणाम्बिके ।।9।।
कह्लारोत्पलनागकेसरसरोजाख्यावलीमालती –
मल्लीकैरवकेतकादिकुसुमै रक्ताश्चमारादिभि: ।
पुष्पैर्माल्यभरेण वै सुरभिणा नानारसस्त्रोतसा
ताम्राम्भोजनिवासिनीं भावतीं श्रीचण्डिकां पूजये ।।10।।
मांसीगुग्गुलचन्दनागुरुरज:कर्पूरशैलेयजै –
र्माध्वीकै: सह कुंकुमै: सुरचितै: सर्पिर्भिरामिश्रितै: ।
सौरभ्यस्थितिमन्दिरे मणिमये पात्रे भवेत् प्रीतये
धूपोsयं सुरकामिनीविरचित: श्रीचण्डिके त्वन्मुदे ।।11।।
घृतद्रवपरिस्फुरद्रुचिररत्नयष्टयान्वितो
महातिमिरनाशन: सुरनितम्बिनीनिर्मित: ।
सुवर्णचषकस्थित: सघनसारवर्त्यान्वित –
स्तव त्रिपुरसुन्दरि स्फुरित देवि दीपो मुदे ।।12।।
जाती सौरभनिर्भरं रुचिकरं रुचिकरं शाल्योदनं निर्मलं
युक्तं हिंगुमरीचजीरसुरभिद्रव्यान्वितैर्व्यंजनै: ।
पक्वान्नेन सपायसेन मधुना दध्याज्यसम्मिश्रितं
नैवेद्यं सुरकामिनीविरचितं श्रीचण्डिके त्वन्मुदे ।।13।।
लवंगकलिकोज्ज्वलं बहुलनागवल्लीदलं
सजातिफलकोमलं सघनसारपूगीफलम् ।
सुधामधुरिमाकुलं रुचिररत्नपात्रस्थितं
गृहाण मुखपंकजे स्फुरितमम्ब ताम्बूलकम् ।।14।।
शरत्प्रभवचन्द्रम:स्फुरितचन्द्रिकासुन्दरं
गलत्सुरतरंगिणीललितमौक्तिकाडम्बरम् ।
गृहाण नवकांचनप्रभवदण्डखण्डोज्ज्वलं
महात्रिपुरसुन्दरि प्रकटमातपत्रं महत् ।।15।।
मातस्त्वन्मुदमातनोतु सुभगस्त्रीभि: सदाsन्दोलितं
शुभ्रं चामरमिन्दुकुन्दसदृशं प्रस्वेददु:खापहम् ।
सद्योsगस्त्यवसिष्ठनारदशुकव्यासादिवाल्मीकिभि:
स्वे चित्ते क्रियमाण एव कुरुतां शर्माणि वेदध्वनि: ।।16।।
स्वर्गांगणे वेणुमृदंगशंखभेरीनिनादैरुपगीयमाना ।
कोलाहलैराकलिता तवास्तु विद्याधरीनृत्यकला सुखाय ।।17।।
देवि भक्तिरसभावितवृत्ते प्रीयतां यदि कुतोsपि लभ्यते ।
तत्र लौल्यमपि सत्फलमेकं जन्मकोटिभिरपीह न लभ्यम् ।।18।।
एतै: षोडशभि: पद्यैरुपचारोपकल्पितै: ।
य: परां देवतां स्तौति स तेषां फलमाप्नुयात् ।।19।।