Ganesh Suktam गणेश सूक्तम् ★
आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय ।
महाहस्ती दक्षिणेन ॥ १ ॥
विद्मा हि त्वा तुविकूर्मिन्तुविदेष्णं तुवीमघम्।
तुविमात्रमवोभिः ॥ २ ॥
न हि त्वा शूर देवा न मर्तासो दित्स॑न्तम् ।
भीमं न गां वारयन्ते ॥ ३ ॥
एतोन्विन्द्रं स्तवामेशानं वस्वः स्वराजम् ।
न राधसा मर्धिषन्नः ॥ ४ ॥
प्र स्तोषदुपं गासिषच्छ्रवत्सामं गीयमानम् । अभिराधसाजुगुरत् ॥ ५ ॥
आ नो भर दक्षिणेनाभि सुव्येन प्र मृश ।
इन्द्र मानो वोर्निर्भाक् ॥ ६ ॥
उपक्रमस्वा भर धृषता धृष्णो जनानाम् ।
अदाशुष्टरस्य वेदः ॥ ७ ॥