Listen

Description

Hanumat Stotram हनुमत स्तोत्रम् ★

ॐ नमो हनुमते तुभ्यं नमो मारुतसूनवे नमः
श्रीरामभक्ताय श्यामास्याय च ते नमः ॥
नमो वानरवीराय सुग्रीवसख्यकारिणे
लङ्काविदाहनार्थाय हेलासागरतारिणे ॥
सीताशोकविनाशाय राममुद्राधराय च |
रावणान्तकुलच्छेदकारिणे ते नमो नमः ॥
मेघनादमखध्वंसकारिणे ते नमो नमः
अशोकवनविध्वंसकारिणे भयहारिणे ॥
वायुपुत्राय वीराय आकाशोदरगामिने।
वनपालशिरच्छेदलङ्कापप्रासादभञ्जिने ||
ज्वलत्कनक़वर्णाय दीर्घलाङ्गलधारिणे
सौमित्रिजयदात्रे च रामदूताय ते नमः ॥
अक्षस्य वधकर्त्रे च ब्रह्मपाशनिवारिणे ।
लक्ष्मणाङ्गमहाशक्तिघातक्षतविनाशिने ॥
रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय च ते नमः
ऋक्षवानरवीरौघप्राणदाय नमो नमः ॥
परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः ।
विषघ्नाय द्विषघ्नाय ज्वरघ्नाय च ते नमः ॥
महाभयरिपुघ्नाय भक्तत्राणैक कारिणे ।
परप्रेरितमंत्राणां यन्त्राणां स्तम्भकारिणे ॥
पयः पाषाणतरणकारणाय नमो नमः ।
बालार्कमण्डलग्रासकारिणे भवतारिणे ॥
नखायुधाय भीमाय दन्तायुधधराय च
रिपुमाया विनाशाय रामाज्ञालोकरक्षिणे ॥
प्रतिग्रामस्थितायाथ रक्षोभूतवधार्थिने
करालशैलशस्त्राय द्रुमशस्त्राय ते नमः ॥
बालैकब्रह्मचर्याय रुद्रमूर्तिधराय च
विहङ्गमाय सर्वाय वज्रदेहाय ते नमः ॥
कौपीनवाससे तुभ्यं रामभक्तिरताय च |
दक्षिणाशाभास्कराय शतचन्द्रोदयात्मने ॥
कृत्याक्षतव्यथाघ्नाय सर्वक्लेशहराय च |
स्वाम्याज्ञापार्थसङ्ग्रामसंख्ये सञ्जयधारिणे ॥
भक्तांतदिव्यवादेशु सङ्ग्रामे जयदायिने ।
किलकिलाबुबुकोच्चार घोरशब्दकराय च ||
सर्पाग्निव्याधिसंस्तम्भकारिणे वनचारिणे ।
सदा वनफलाहारसंतृप्ताय विशेषतः ॥
महार्णव शिला बद्धसेतुबन्धाय ते नमः

॥ फलश्रुतिः ॥
वादे विवादे सङ्ग्रामे भये घोरे महावने ।
सिंहव्याघ्रादिचौरेभ्यः स्तोत्रपाठाद्भयं न हि ॥
दिव्ये भूतभये व्याघौ विषे स्थावरजङ्गमे ||
राजशस्त्रभये चोग्रे तथा ग्रहभयेषु च ।
जले सर्पे महावृष्टौ दुर्भिक्षे प्राणसम्प्लवे ॥
पठेत स्तोत्रं प्रमुच्येत भयेभ्यः सर्वतो नरः
तस्य क्वापि भयं नास्ति हनुमत्स्तव् पाठतः ||
सर्वदा वै त्रिकालं च पठनीयमिदं स्तवम् |
सर्वान कामानवाप्नोति नात्र कार्या विचारणा ॥
विभीषणकृतं स्तोत्रं ताक्ष्येण समुदीरितम् ।
ये पठिष्यन्ति भक्त्या वै सिद्धयस्तत्करे स्थिताः || ★
॥ विभीषण कथितं श्री हनुमत् स्तोत्रम् सम्पूर्णं ॥