Listen

Description

Navgrah Stuti नवग्रह स्तुति

ॐ आदिदेव नमस्तुभ्यं सप्तसप्ते दिवाकरः ॥

आयुरारोग्यं मे देहि कुरू शांतिं शुभप्रदाम् ॥

रोहिणीश सुधामूर्ते सुधारूप सुधाशन ॥

सोम सौम्यो भवास्माकं सर्वारिष्टं निवारय ॥

कुज कुप्रभवोऽपि त्वं मंगलः परिगद्यसे ॥

अमङ्गलं निहत्याशु सर्वदा यक्ष मङ्गलम् ॥

बुध त्वं बुद्धिजननो बोधवान्सर्वदा नृणाम् ॥

तत्त्वावबोधं कुरूमे सोमपुत्र नमोऽस्तुते ॥

वेदशास्त्रार्थतत्त्वज्ञ ज्ञानविज्ञानपारग ॥

विबुधार्तीहरो नित्यं देवाचार्य नमोस्तुते ॥

भार्गवो भर्गजननः शुचिः श्रुतिविशारद ॥

हत्वा ग्रहकृतान्दोषानारोग्यं देहि में सदा ॥

कोणनीलाञ्जनप्रख्यं मन्दचेष्टाप्रसारिणम्

छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥

महाशिरा महावक्रो दीर्घदंष्ट्रो महाबलः ॥

मुण्डकायोर्ध्वकेशी च पीड़ां हरतु मे तमः ॥

अधः स्थार्धाङ्ग भोः केतो पत्रधूमसमप्रभ ॥

रौद्ररुप नमस्तुभ्यं मम पीड़ां निराकुरू ॥

इतिग्रहस्तुति